मत्तसिन्धुरमस्तकोपरि नृत्यमानपदाम्बुजम् । भक्तचिन्तितसिद्धिदानविचक्षणं कमलेक्षणम् ।
For Vidhi,
Email:- info@vpandit.com
Contact Number:- 1800-890-1431
श्रीकृष्ण उवाच :-
मत्तसिन्धुरमस्तकोपरि नृत्यमानपदाम्बुजम् ।
भक्तचिन्तितसिद्धिदानविचक्षणं
कमलेक्षणम् ।
भुक्तिमुक्तिफलप्रदं
भवपद्मजाऽच्युतपूजितम् ।
कृत्तिवाससमाश्रये मम
सर्वसिद्धिदमीश्वरम् ॥ १॥
वित्तदप्रियमर्चितं कृतकृच्छ्रतीव्रतपश्चरैः ।
मुक्तिकामिभिराश्रितैर्मुनिभिर्दृढामलभक्तिभिः
।
मुक्तिदं
निजपादपङ्कजसक्तमानसयोगिनाम् ।
कृत्तिवाससमाश्रये मम
सर्वसिद्धिदमीश्वरम् ॥ २॥
कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै ।
यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम्
।
रक्तभुग्गणनाथहृद्भ्रमराञ्चिताङ्घ्रिसरोरुहम्
।
कृत्तिवाससमाश्रये मम
सर्वसिद्धिदमीश्वरम् ॥ ३॥
नक्तनाथकलाधरं नगजापयोधरनीरजा-
लिप्तचन्दनपङ्ककुङ्कुमपङ्किलामलविग्रहम्
।
शक्तिमन्तमशेषसृष्टिविधायकं
सकलप्रभुम् ।
कृत्तिवाससमाश्रये मम
सर्वसिद्धिदमीश्वरम् ॥ ४॥
रक्तनीरजतुल्यपादपयोजसन्मणिनूपुरम् ।
पत्तनत्रयदेहपाटनपङ्कजाक्षशिलीमुखम्
।
वित्तशैलशरासनं
पृथुशिञ्जिनीकृततक्षकम् ।
कृत्तिवाससमाश्रये मम
सर्वसिद्धिदमीश्वरम् ॥ ५॥
यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः ।
प्रातरेव मया कृतं
निखिलाघतूलमहानलम् ।
तस्य पुत्रकलत्रमित्रधनानि
सन्तु कृपाबलात् ।
ते महेश्वर शङ्कराखिल
विश्वनायक शाश्वत ॥ ६॥
Write a public review